Back to Class 9 Sanskrit
कक्षा 9 संस्कृत – शेमुषी भाग 1

📖 अध्याय 1: भारतीवसन्तगीतिः

NCERT समाधान - सभी प्रश्नों के हल संस्कृत में। CBSE और RBSE बोर्ड के लिए।

रचनाकार: पं. ब्रजनारायण चक्रवर्ती

अभ्यासः (प्रश्न-उत्तर)

प्रश्न 1. एकपदेन उत्तरं लिखत –
(क) कविः कां सम्बोधयति?
उत्तरम्: वाणीम्

(ख) कविः वाणीं कां वादयितुं प्रार्थयति?
उत्तरम्: वीणाम्

(ग) कीदृशीं वीणां निनादायितुं प्रार्थयति?
उत्तरम्: नवीनाम्

(घ) गीतिं कथं गातुं कथयति?
उत्तरम्: मृदुम्

(ङ) सरसाः रसालाः कदा लसन्ति?
उत्तरम्: वसन्ते
प्रश्न 2. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत –
(क) कविः वाणीं किं कथयति?
उत्तरम्: कविः वाणीं वीणां निनादयितुं कथयति।

(ख) वसन्ते किं भवति?
उत्तरम्: वसन्ते मधुरमञ्जरीपिञ्जरीभूतमालाः सरसाः रसालाः लसन्ति, ललितकोकिलानां काकलीनां कलापाः शोभन्ते।

(ग) सलिलं तव वीणाम् आकर्ण्य कथम् उच्चलेत्?
उत्तरम्: सलिलं तव वीणाम् आकर्ण्य सलीलम् उच्चलेत्।

(घ) कविः भगवतीं भारतीं कस्याः तीरे मधुमाधवीनां नतां पङ्क्तिम् अवलोक्य वीणां वादयितुं कथयति?
उत्तरम्: कविः भगवतीं भारतीं कलिन्दात्मजायाः (यमुनायाः) सवानीरतीरे मधुमाधवीनां नतां पङ्क्तिम् अवलोक्य वीणां वादयितुं कथयति।
प्रश्न 3. ‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि दत्तानि। तानि चित्वा पदानां समक्षे लिखत –
‘क’ स्तम्भः ‘ख’ स्तम्भः (पर्यायपदानि)
सरस्वती वाणी
आम्रम् रसालः
पवनः समीरः
तटे तीरे
भ्रमराणाम् अलीनाम्
प्रश्न 4. अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
(क) निनादय – हे वाणि! त्वं स्ववीणां निनादय।

(ख) मन्दमन्दम् – तत्र मन्दमन्दं पवनः वहति।

(ग) मारुतः – पर्वतेषु अहर्निशं मारुतः प्रवहति।

(घ) सलिलम् – जलस्य पर्यायः सलिलम् अपि भवति।

(ङ) सुमनः – सुमनः धरायाः शृङ्गारः भवति।
प्रश्न 5. प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत –
उत्तरम् (हिन्दी में):
इस समय वसंत ऋतु में मीठी बौरों से सरस अथवा सुशोभित हुई आम के वृक्षों की पंक्तियाँ दिखाई दे रही हैं और उनपर मीठी आवाज़ से युक्त कोयलों के समूह शोभा पा रहे हैं।
प्रश्न 6. अधोलिखितपदानां विलोमपदानि लिखत –
(क) कठोराम् × मृदुम्
(ख) कटु × मधुरम्
(ग) शीघ्रम् × मन्दमन्दम्
(घ) प्राचीनम् × नवीनम्
(ङ) नीरसः × सरसः

📄 PDF डाउनलोड

इस अध्याय के सभी समाधानों को PDF में डाउनलोड करें।

Download PDF