अभ्यासः (प्रश्न-उत्तर)
1. एकपदेन उत्तरं लिखत –
(क) मिल्लका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?
उत्तरम्: काशीविश्वनाथमन्दिरम्
(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?
उत्तरम्: त्रिशत-सेटकमितम्
(ग) कुम्भकारः घटान् किमर्थं रचयति?
उत्तरम्: जीविकाहेतोः
(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धयन्ति स्म?
उत्तरम्: मोदकानि
(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?
उत्तरम्: चन्दनः
2. पूर्णवाक्येन उत्तरं लिखत –
(क) मिल्लका चन्दनश्च मासपर्यन्तं धेनोः सेवां कथम् अकुरुताम्?
उत्तरम्: मिल्लका चन्दनश्च मासपर्यन्तं धेनोः घासादिकं गुडादिकं च भोजयतः, कदाचित् विषाणयोः तैलं लेपयतः, तिलकं धारयतः, रात्रौ नीराजनेनापि तोषयतः च सेवाम् अकुरुताम्।
(ख) कालः कस्य रसं पिबति?
उत्तरम्: कालः क्षिप्रम् अक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः रसं पिबति।
(ग) घटमूल्यार्थं यदा मिल्लका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
उत्तरम्: पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितं घटान्। दुग्धं विक्रीय एव घटमूल्यं ददातु।
(घ) मिल्लकया किं दृष्ट्वा धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्?
उत्तरम्: मिल्लकया धेनुं दुग्धहीनाम् अवगत्य धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्।
(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?
उत्तरम्: मासपर्यन्तं धेनोः अदोहनस्य कारणम् आसीत् यत् चन्दनः अचिन्तयत् यत् प्रतिदिनं दोहनं कृत्वा दुग्धं स्थापयामः चेत् तत् सुरक्षितं न तिष्ठति, अतः मासान्ते एव सम्पूर्णतया दुग्धदोहनं करिष्यामि।
3. रेखाङ्कितपदानि आधारयित्वा प्रश्ननिर्माणं कुरुत –
(क) मिल्लका सखीभिः सह धर्मयात्रायै गच्छति स्म।
प्रश्नः: मिल्लका काभिः सह धर्मयात्रायै गच्छति स्म?
(ख) चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।
प्रश्नः: चन्दनः किं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्?
(ग) मोदकानि पूजानिमित्तानि रचितानि आसन्?
प्रश्नः: कानि पूजानिमित्तानि रचितानि आसन्?
(घ) मिल्लका स्वपतिं चतुरतमं मन्यते?
प्रश्नः: मिल्लका कं चतुरतमं मन्यते?
(ङ) नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति?
प्रश्नः: का पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति?
4. मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत –
गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मङ्गलकामनाम्, कल्याणकारिणः
यदा चन्दनः स्वपत्न्याः काशीविश्वनाथं प्रति धर्मयात्रायाः विषये जानाति तदा सः क्रोधितः न भवति यत् तस्याः पत्नी तं गृहव्यवस्थायै कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते मङ्गलकामनाम् कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् कल्याणकारिणः भवन्तु। मार्गे काचिदपि बाधा तव कृते समस्यां न उत्पादयेत्। एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः समर्थकः आसीत्।
5. घटनाक्रमानुसारं लिखत –
सही क्रम:
(घ) मिल्लका पूजार्थं मोदकानि रचयति।
(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं गच्छति।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(छ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(ख) उभौ नन्दिन्याः सेवां विभिन्नरीत्या कुरुतः।
(ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
6. अधोलिखितानि वाक्यानि कः कं प्रति कथयति इति प्रदत्तस्थाने लिखत –
(क) धन्यवाद मातुल! याम्यधुना। → उमा चन्दनं प्रति
(ख) त्रिसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति। → चन्दनः उमां प्रति
(ग) मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते। → चन्दनः देवेशं प्रति
(घ) पुत्रिके! नाहं पापकर्म करोमि। → देवेशः मिल्लकां प्रति
(ङ) देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्। → चन्दनः मिल्लकां प्रति
7. पाठस्य आधारेण प्रदत्तपदानां सन्धिं/सन्धिच्छेदं वा कुरुत –
(क) शिवास्ते = शिवाः + ते
(ख) मनोहरः = मनः + हरः
(ग) सप्ताहान्ते = सप्ताह + अन्ते
(घ) नेच्छामि = न + इच्छामि
(ङ) अत्युत्तमः = अति + उत्तमः
(अ) पाठाधारेण अधोलिखितपदानां प्रकृति प्रत्ययं च संयोज्य/विभज्य वा लिखत –
(क) करणीयम् = कृ + अनीयर्
(ख) विक्रीय = वि + क्री + ल्यप्
(ग) पठितम् = पठ् + क्त
(घ) त्यक्त्वा = त्यज् + क्त्वा
(ङ) दोग्धुम् = दुह् + तुमुन्
📄 PDF डाउनलोड
इस अध्याय के सभी समाधानों को PDF में डाउनलोड करें।
Download PDF