Back to Class 9 Sanskrit
कक्षा 9 संस्कृत – शेमुषी भाग 1

📖 अध्याय 8: जटायोः शौर्यम्

NCERT समाधान - सभी प्रश्नों के हल संस्कृत में। CBSE और RBSE बोर्ड के लिए।

स्रोत: वाल्मीकि रामायण (अरण्यकाण्ड)

अभ्यासः (प्रश्न-उत्तर)

1. एकपदेन उत्तरं लिखत –
(क) आयतलोचना का अस्ति?
उत्तरम्: सीता

(ख) सा कं ददर्श?
उत्तरम्: वनस्पतिगतं गृध्रम् (जटायुम्)

(ग) खगोत्तमः कीदृशीं गिरं व्याजहार?
उत्तरम्: शुभाम्

(घ) जटायुः काभ्यां रावणस्य गात्रे व्रणान् चकार?
उत्तरम्: तीक्ष्णनखाभ्यां चरणाभ्याम्

(ङ) अरिन्दमः खगाधिपः कति बाहून् व्यपाहरत्?
उत्तरम्: दश
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
(क) "जटायो! पश्य" इति का वदति?
उत्तरम्: "जटायो! पश्य" इति सीता वदति।

(ख) जटायुः रावणं किं कथयति?
उत्तरम्: जटायुः रावणं परदाराभिमर्शनात् नीचां मतिं निवर्तयितुं कथयति।

(ग) क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?
उत्तरम्: क्रोधवशात् रावणः जटायुं हन्तुम् उद्यतः अभवत्।

(घ) पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?
उत्तरम्: पतगेश्वरः रावणस्य मुक्तामणिविभूषितं सशरं चापं बभञ्ज।

(ङ) जटायुः केन वामबाहून् दंशित?
उत्तरम्: जटायुः तुण्डेन रावणस्य वामबाहून् दंशित।
3. उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –
यथा— गुण + णिनि = गुणिन् (गुणी); दान + णिनि = दानिन् (दानी)
(क) कवच + णिनि = कवचिन् (कवची)
(ख) शर + णिनि = शरिन् (शरी)
(ग) कुशल + णिनि = कुशलिन् (कुशली)
(घ) धन + णिनि = धनिन् (धनी)
(ङ) दण्ड + णिनि = दण्डिन् (दण्डी)
(अ) रावणस्य जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि, तानि पृथक्-पृथक् कृत्वा लिखत –
युवा, सशरः, वृद्धः, हताश्वः, महाबलः, पतगसत्तमः, भग्नधन्वा, महागृध्रः, खगाधिपः, क्रोधमूर्च्छितः, पतगेश्वरः, सरथः, कवची, शरी
रावणस्य विशेषणानि:
  • युवा
  • सशरः
  • हताश्वः
  • भग्नधन्वा
  • क्रोधमूर्च्छितः
  • सरथः
  • कवची
  • शरी
जटायोः विशेषणानि:
  • वृद्धः
  • महाबलः
  • पतगसत्तमः
  • महागृध्रः
  • खगाधिपः
  • पतगेश्वरः
6. (अ) अधोलिखितानि विशेषणपदानि प्रयुज्य संस्कृतवाक्यानि रचयत –
(क) शुभाम् – जटायुः शुभां गिरं व्याजहार।

(ख) खगाधिपः – जटायुः खगाधिपः आसीत्।

(ग) हतसारथिः – रावणः हतसारथिः अभवत्।

(घ) वामेन – जटायुः वामेन तुण्डेन रावणं प्राहरत्।

(ङ) कवची – रावणः कवची आसीत्।
(आ) उदाहरणमनुसृत्य समस्तं पदं रचयत –
यथा— त्रयाणां लोकानां समाहारः = त्रिलोकी
(क) पञ्चानां वटानां समाहारः = पञ्चवटी
(ख) सप्तानां पदानां समाहारः = सप्तपदी
(ग) अष्टानां भुजानां समाहारः = अष्टभुजी
(घ) चतुर्णां मुखानां समाहारः = चतुर्मुखी

📄 PDF डाउनलोड

इस अध्याय के सभी समाधानों को PDF में डाउनलोड करें।

Download PDF